श्री वेङ्कटेश द्वादशनाम स्तोत्रम् | Shri Venkateswara Dwadasa Nama Stotram in Hindi

श्री वेङ्कटेश द्वादशनाम स्तोत्रम् | Shri Venkateswara Dwadasa Nama Stotram in Hindi


Shri Venkateswara Dwadasa Nama Stotram in Hindi

अस्य श्री वेङ्कटेश द्वादशनाम स्तोत्र महामन्त्रस्य ब्रह्मा ऋषिः अनुष्टुप् छन्दः श्री वेङ्कटेश्वरो देवता इष्टार्थे विनियोगः ।

नारायणो जगन्नाथो वारिजासनवन्दितः ।
स्वामिपुष्करिणीवासी शङ्खचक्रगदाधरः ॥ १ ॥

पीताम्बरधरो देवो गरुडासनशोभितः ।
कन्दर्पकोटिलावण्यः कमलायतलोचनः ॥ २ ॥

इन्दिरापतिगोविन्दः चन्द्रसूर्यप्रभाकरः ।
विश्वात्मा विश्वलोकेशो जय श्रीवेङ्कटेश्वरः ॥ ३ ॥

एतद्द्वादशनामानि त्रिसन्ध्यं यः पठेन्नरः ।
दारिद्र्यदुःखनिर्मुक्तो धनधान्यसमृद्धिमान् ॥ ४ ॥

जनवश्यं राजवश्यं सर्वकामार्थसिद्धिदम् ।
दिव्यतेजः समाप्नोति दीर्घमायुश्च विन्दति ॥ ५ ॥

ग्रहरोगादिनाशं च कामितार्थफलप्रदम् ।
इह जन्मनि सौख्यं च विष्णुसायुज्यमाप्नुयात् ॥ ६ ॥

इति ब्रह्माण्डपुराणे ब्रह्मनारदसंवादे श्री वेङ्कटेश द्वादशनाम स्तोत्रम् ।

Shri Venkateswara Dwadasa Nama Stotram in Hindi

Leave a Comment

आरती : जय अम्बे गौरी